________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
अष्टम उद्देशकः १३४० (A)
तर्हि से तस्य कल्पते यथारानिकतया शय्यासंस्तारकं परीग्रहीतुं, नान्यथेति। एतत् पिण्डसूत्रं व्याख्यातम् इहाधुना पुनः प्रत्येकसूत्राणि व्याख्यास्यामि ३३६७ ॥
सूत्रम्- से य अहालहुसगं सेज्जासंथारगं गवेसेज्जा, जं चक्किया एगेणं हत्थेण ओगिज्झ जाव एगाहं वा, दुयाहं वा, तियाहं वा परिवहित्तए, एस मे वासावासासु भविस्सइ। ॥२॥
सूत्रम्- से य अहालहुसगं सेज्जासंथारगं गवेसेज्जा, जं चक्किया एगेण हत्थेण ओगिज्झ जाव एगाहं वा, दुयाहं वा, तियाहं वा परिवहित्तए, एस मे हेमंत-गिम्हासु भविस्सइ। ॥३॥
सूत्रम्- से य अहालहुसगं सेजासंथारगं गवेसेज्जा, जं चक्किया एगेणं हत्थेण ओगिज्झ जाव एगाहं वा, दुयाहं वा, तियाहं वा, चउया हं वा, पंचाहं वा, दूरमवि अद्धाणं परिवहित्तए, एस मे वुड्ढावासासु भविस्सइ ॥४॥ ___'से य अहालहुस्सगं सेज्जासंथारगं गवेसेज्जा' इत्यादि सोऽधिकृतो भिक्षुर्यथालघुस्वक- सूत्र २ मेकान्तलघुकं वीणाग्रहणग्राह्य, शय्या सर्वाङ्गिका संस्तारकोऽर्द्धतृतीयहस्तदीर्घः हस्तं
गाथा
०३३६८-३३७२ १. चत्वार्यङ्गुलानि विस्तीर्णः । अथवा तत्पुरुषः समासः शय्या एव संस्तारकः शय्यासंस्तारक:[तं] 10
संस्तारकशय्यासंस्तारकं तृणमयं पट्टमयं वा गवेषयेत् इत्यादि । तत्र यत् शक्नुयात् एकेन हस्तेनावगृह्य
|| स्वरूपादिः यावदेकाहं वा अध्वानं [व्यहं]वा त्र्यहं वा अध्वानं गच्छन् परिवोढुं तत् गृह्णीयात्, एष एव वर्षावासे भविष्यति, एष वर्षासूत्रस्यार्थः । एवं हेमन्तग्रीष्मसूत्रार्थो वृद्धावाससूत्रार्थश्च भावनीयः ।
१३४० (A) नवरं वृद्धावाससूत्रे चतुरहं वा पञ्चाहं वेत्यधिकं वक्तव्यम् । अधुना नियुक्तिविस्तर:
For Private and Personal Use Only