________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
.
गाहा गेहं तत्र ऋतौ ऋतुबद्धे काले वर्षाकाले वा पर्युषितस्तस्मिन् गाहाए सूत्रे स्त्रीत्वं | प्राकृतत्वाद्, एवमुत्तरत्रापि। तस्मिन् प्रदेशे अन्तर्बहिरादिलक्षणे तस्मिन्नवकाशान्तरे द्वयो
मध्यभागलक्षणे यद् यत् शय्या संस्तारकं शय्यासंसारकभूमिलाभः तत् ममैव स्यादिति ब्रूते।
| तत्र यदि स्थविरास्तस्याशठभावमवगम्याऽनुजानन्ति तदा तस्यैव स्याद्, अथ से तस्य | अष्टम उद्देशक: शठ भावमवबुध्य स्थविरा नानुजानते एवं तर्हि से तस्य [न स्यात्,] कल्पते, 5 १३३८ (A) IX
यथारानिकतया शय्यासंस्तारकभूमिं परिग्रहीतुमिति सूत्राक्षरार्थः ॥ सम्प्रति भाष्यकृत् | विषमपदव्याख्यां करोति -
गाहा घरे गिहे या, एगट्ठा होंति उग्गहे तिविहे ।
उउबद्धे वासासु य, वुड्डावासे य नाणत्तं ॥ ३३६३॥ 10 गाहा इति घरमिति गिहमिति वा एते त्रयोऽप्येकार्थाः। तत्र गृहं त्रिविधे अवग्रह साधर्मिकावग्रहे भवति। तद्यथा-ऋतुबद्धे ऋतुबद्धसाधर्मिकावग्रहे वर्षावाससाधर्मिकावग्रहे। | तत्र ऋतुरिति ऋतुबद्धावग्रहो गृहीतः, 'पज्जोसविते' इति अनेन वर्षावग्रहः, एतयोर्द्वयोरप्यवग्रहयोरन्तःप्रविष्ट इति कृत्वा सामर्थ्यतस्तृतीयोऽपि वृद्धावासाऽवग्रहो गृहीतः। तथा चाहवृद्धावासे च। तत्र त्रिष्वप्यवग्रहेषु यन्नानात्वं तत् प्रत्येकसूत्रेषु वक्ष्यामीति वाक्यशेषः ॥३३६३ ।।
सूत्र १
गाथा ३३६२-३३६७
शय्यासंस्तारकानुज्ञापना
१३३८ (A)
For Private and Personal Use Only