________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः
१४२५ (A
अद्यैव उभयस्मिन् सूत्रे अर्थे च शङ्कितस्य मम कः प्रतिपृच्छां दास्यति ? एषा ज्ञाने चिन्ता, दर्शने कमहमिदानीमुपबृंहिष्यामि? कं वा स्थिरीकरिष्यामि? कस्य वा वात्सल्यमधुना करिष्यामि? चारित्रे चिन्ता मां चरणे सीदन्तमिदानीं कः सारयिष्यति? को वा मे प्रायश्चित्तस्थानमापन्नस्य शोधिं करिष्यति? एवं चिन्तयन् संवेगमापन्नः सन् प्रतिनिवर्त्तते । तस्य च प्रतिनिवृत्तस्य गच्छं प्रत्यागतस्याऽनुलोमना कर्त्तव्या। 'धन्योऽसि त्वं येनात्मा प्रत्यभिज्ञात:' एवमनुलोमनां कृत्वा तस्य तमेवोपधिं प्रयच्छन्ति ॥ ३६३३ ॥ ३६३४ ॥ सम्प्रत्यवधाविनमधिकृत्य प्रतिपिपादयिषुराह
गाथा दुविहोहाविं वसभा, सारेंति भयाणि वा से साहिति ।
३६३०-३६३६
अवधाविअट्ठारस ठाणाई, हयरस्सि-गयंकुसनिभाई ॥ ३६३५ ॥
स्वरूपादिः द्विविधमप्यवधाविनमाचार्यमापृच्छ्य व्रजन्तं वृषभाः सारयन्ति शिक्षयन्ति भयानि वा |४|१४२५ (A) से तस्य साधयन्ति कथयन्ति रतिवाक्यचूलिकाभिहितानि अष्टादशस्थानरूपाणि हयरश्मि
For Private and Personal Use Only