________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
एवमेव पूर्वोक्तेनैव प्रकारेण अछिन्नेषु पात्रेषु ग्रहीतव्येषु गृहीते ग्रहणे च विधिरनुसरणीयो मुक्त्वा अतिरेकम् । किमुक्तं भवति ? अतिरिक्तः पतद्ग्रहस्तत्र न सम्भवति परिमाणाऽकरणाद् इति तत्सम्भवविधिर्न वक्तव्यः । सम्प्रति पुराणग्रहणमेभिर्वक्ष्यमाणैः पदैर्वक्ष्यामि ॥ ३६०९ ॥
मुक्त्वा
व्यवहारसूत्रम्
अष्टम उद्देशकः
तान्येव पदान्याह
१४१६ (B)
गाथा
आगमगमरकालगते३, दुल्लभतम कारणेहिं एएहिं । दुविहा एगमणेगा, अणेगनिद्दिट्ठऽनिद्दिट्ठा ॥ ३६१० ॥
आगमद्वारं गमद्वारं कालगतद्वारं दुर्लभद्वारमेतैः कारणैस्तत्र गच्छे पुराणग्रहणसम्भवः । तत्र ये पात्राणि ददति ते द्विविधाः , तद्यथा-एको वा अनेके वा, येषामपि ददाति तेऽपि द्विविधा-एको वाऽनेके वा, दानं च निर्देशपूर्वकं, यथा- अमुकस्य दास्यामि। तत्र यदा एकस्य ददाति तदा तन्निर्दिशति अमुकस्य दास्यामि, ये त्वनेके [ ते निर्दिष्टा अनिर्दिष्टा वा, अपरिमितसङ्ख्याकतया निर्देशाऽकरणात्। एष द्वारगाथासक्षेपार्थः ॥ ३६१० ॥
साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतः आगमद्वारमाह
X
३६०८-३६१३ पात्रग्रहणादिस्वरूपम्
१४१६ (B)
For Private and Personal Use Only