________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः १३९९ (B) |
संविग्गपुराणोवहि, अहवा विहिसीवणा समावत्ती। होज व असीवितो च्चिय, इति आसंकाए गहणं तु ॥ ३५५९॥
अथवा पुराणसंविग्नोपधिः, किमुक्तं भवति? येषां सत्क उपधिः पतितस्ते पूर्वं संविग्ना आसीरन् पश्चादसंविग्नीभूताः, स चोपधिः पूर्वं संविग्नसीवनेन सीवितः। अथवा असंविग्नैरपि समापत्त्या विधिसीवनिकया सीवितो यदि वा असीवित एव स भवेत् ततस्तं दृष्ट्वा आशङ्का भवति किं संविग्नानामुतासंविग्नानां तत आशङ्कया ग्रहणं भवति ॥ ३५५९ ॥
सम्प्रति ग्रहणानन्तरं विधिशेषमाहते पुण परदेसगते, नाउं भुजंति अहव उज्झंति।
गाथा अन्ने उ परिढवणा, कारणभोगो व गीएस ॥ ३५६०॥
३५५५-३५६०
असंविग्नतमुपधिं गृहीत्वा येषाम् असंविग्नानां सत्कः स उपधिस्ते परदेशं गतास्ततस्तान् परदेशं |
विस्मृतोपधेः गतान् ज्ञात्वा कारणे समापतिते परिभुञ्जते अथवा कारणाभावे परिष्ठापयन्ति । एवं || विधिः कारणैरसंविग्नानामपि पतितमुपधिं गृह्णानो न प्रायश्चित्तभाग्भवति। अथ येषां सत्क उपधिः
१३९९ (B)
१विहिसिव्वणा-ला. ॥
For Private and Personal Use Only