________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम
उद्देशकः १३८८ (A)
तत् पतितं यथालघुस्वकमुपकरणं गृहस्थैर्दृष्टं ततस्ते तद् गृहीत्वा अन्यस्य छिद्रवतो वस्त्रस्य थिग्गलकं कुर्वन्ति, तथा प्रक्षाल्य पोतकानि वहिकापट्टादिरूपाणि कुर्युः, यदि वा उत्तानशायिनां बालकानां योग्यानि चीवराणि विदधीरन्। इत्येवमादिभिः प्रकारैर्यथालघुस्वकस्योप-करणस्याऽग्रहणे अधिकरणम् । यदा तु पतिताः कल्पा न गृह्यन्ते तदा ते बहुदोषतमाः प्रभूततमं तेष्वधिकरणमिति भावः। तच्च उपकरणं विना अन्यदपकरणं याचमानस्य परिहानिः सूत्रार्थयोः, ये च तृणग्रहणाग्निसेवनादयो दोषास्तेऽपि प्रसजन्ति ॥ ३५२० ॥
एते अन्ने य बहू, जम्हा दोसा तहिं पसज्जंती । आसन्ने वा अंतो वा, तम्हा उवहिं न वोसिरिए ॥ ३५२१॥
एते अनन्तरोदिता अन्ये च यस्माद्बहवो दोषास्तत्र पतिते प्रसजन्ति तस्मात् ग्रामादीनां बहिरासन्ने प्रदेशे अन्तर्वा उपधिं न व्युत्सृजेत् न विस्मरणतः पातयेत् ॥ ३५२१॥
अधुना यः शङ्कातः शङ्कयमानो न गृह्णाति तं प्रत्युपदेशमाह१. पटादि सं. ॥
गाथा ३५२१-३५२७ विस्मृतोपधि
ग्रहणे विधिः
१३८८ (A)
For Private and Personal Use Only