________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः
१३८२ (A)
शालादीनि तथा देवकुलं गोष्ठिकादीनां वा गृहाणि यत्र गोष्ठिकादयः समवायं कुर्वन्ति तानि दत्तविचाराणि भवन्ति, अदत्तविचाराणि गृह्यन्ते, तेषु कोष्ठागारादिषु यत्र येषु तृण-फलकानि रक्ष्यन्ते तथाहि-प्रतीतमेतत् कोष्ठागारादिषु मा कोऽपि किमपि हार्षीदिति प्राहरिकमोचनेन तृणानि | फलकानि धान्यानि च प्रयत्नेन रक्ष्यन्ते तत्र तेष्वननुज्ञातेषु साधवो न तिष्ठन्ति ॥ ३५०३ ॥
किमर्थम्? इति चेदत आहदोसाण रक्खणट्ठा, चोएइ निरत्थयं ततो सुत्तं ।
गाथा भण्णइ कारणियं खलु, इमे य ते कारणा होति ॥ ३५०४ ॥
३५०४-३५१०
कारणे दोषाणां प्रायश्चित्तप्रसङ्गतो भङ्गादिरूपाणां रक्षणार्थं रक्षणाय तत्र न तिष्ठन्ति, अत्र
पूर्वमग्रहः परश्चोदयति -यद्येवं ततः सूत्रम् "इह खलु निग्गंथाण वा निग्गंथीण वा नो सुलभे पाडिहारिए" || पाश्चात् इत्यादि निरर्थकम्, अविषयत्वात्, सूत्रे हि अनुज्ञापनमन्तरेणापि पूर्वमवग्रहग्रहणमनुज्ञातमिति।
अनुज्ञापना सूरिराह भण्यते उत्तरं दीयते- इदं खलु सूत्रं कारणिकं कारणैर्निर्वृत्तं तानि च कारणानि १३८२ (A) इमानि वक्ष्यमाणलक्षणानि भवन्ति ॥ ३५०४॥ तान्येवाह
For Private and Personal Use Only