________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः १३८० (B)
एकं वसतिं प्रतिगृह्णीथ अपरं परुषाणि भाषध्वे तस्मात् क्षमध्वम्' इत्येवं वचसा अनुलोमेन अनुकूलेनाऽनुलोमयितव्यः स्यादिति ॥
सेज्जासंथारदुर्ग, अणणुण्णवेऊण ठायमाणस्स । लहुगो लहुगो लहुगा, आणादी निच्छुभण पंतो ॥ ३४९९ ॥
शय्यासंस्तारकद्विकं परिशाट्यपरिशाटिरूपं शालादिषु चावग्रहमननुज्ञाप्य तिष्ठतः प्रायश्चित्तं लघुकादि, तद्यथा-शालादिष्ववग्रहमननुज्ञाप्य तिष्ठतो लघुको मासः, परिशाटौ मासलघु , अपरिशाटौ चत्वारो लघुकाः, तथा आज्ञादय आज्ञाभङ्गादयो दोषाः। तथा प्रान्तकोऽपि रुष्टः सन् निच्छुभणं निष्काशनं कुर्यात् ॥ ३४९९ ॥
गाथा
३४९९-३५०३ एवमदिण्णवियारे, दिण्णविचारे वि सभपवादीसु ।
अनुज्ञापना तणफलगाणुण्णाया, कप्पडियादीण जत्थ भवे ॥ ३५००॥
एवमदत्तविचारे शालादौ द्रष्टव्यं, दत्तविचारं नाम- यत्र कार्पटिकादिर्न कोऽपि वार्यते ||१३८० (B) तच्च सभा वा प्रपा वा मण्डपको वा यान्यपि च तत्र तृणफलकादीनि तान्यप्यनुज्ञातानि।
कार्या
For Private and Personal Use Only