________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री | व्यवहारसूत्रम् षष्ठ
उद्देशकः १०८१ (A)
राजा सूरिमापृच्छति-'भगवन् ! किं लौकिको विनयो बलीयान् अथ लोकोत्तरिक:?'। आचार्येणोक्तमयमर्थः परीक्ष्यतां, परमेवं ज्ञायते लोकोत्तरिको विनयो बलीयान् । तत्र परीक्षा कर्तुमारब्धा। आचार्येणोक्तं-यस्तव दृष्टप्रत्ययो यं वा आकृत्या त्वं जानासि न एष विनयभ्रंशी तं प्रेषय, 'यथा कुतोमुखी गङ्गा वहति? इति ज्ञात्वा निवेदय'। ततो राजा य आकृतिमान् । यश्च दृष्टप्रत्ययस्तं प्रेषयति, 'व्रज, कुतोमुखी गङ्गा वहति' सोऽचलन् तत्रैव स्थितो नृपं भणति 'यथा पूर्वाभिमुखी गङ्गा वहति लोकोऽप्यन्य एतत् जानाति'। तत्र आचार्यो ब्रूते'मम शिष्याणां मध्ये यं त्वं विषमकरचरणनाशादिभिर्विषमं जानासि, उक्तं च
विषमसमैर्विषमसमाः विषमैर्विषमाः समैः समाचाराः । करचरणवदननासाकोष्ठनिरीक्षणैः पुरुषाः ॥
गाथा २५३२-२५३६ लोकोत्तरविनयस्य श्रेष्ठत्वम्
विषमत्वाच्चाविषमे एव विनयभ्रंशं करिष्यतीति तं प्रेषय ॥ २५३४ ॥
१०८१ (A)
रण्णा पयंसितो एस वयउ अविणीयदंसणो समणो । पच्चागय उस्सग्गं काउं आलोयए गुरुणो ॥ २५३५॥
For Private And Personal Use Only