________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः १०६७ (B)
नाइक्कमइ ४। आयरिय-उवज्झाए बाहिं उवस्सयस्स एगरायं वा दुरायं वा एगओ वसमाणे नाइक्कमइ ५ ॥ २ ॥
"आयरियउवज्झायस्स गणंसि पंच अतिसेसा पण्णत्ता" इत्यादि । अस्य सूत्रस्य सम्बन्धप्रतिपादनार्थमाह
अतिसेसियदव्वट्ठा, नायविधिं वयति बहुसुतो संतो । णेगा य अतिसया बहुसुयस्स एसो उ पस्सेसो ॥२४९९॥
अतिशेषितानाम् अतिशयितानां ग्लानप्रायोग्याणां शतपाकादीनां द्रव्याणामर्थाय बहुश्रुतः सन् ज्ञातविधिं व्रजति इति पूर्वसूत्रे प्रतिपादितमस्मिंश्च सूत्रे बहुश्रुतस्य सतोऽनेके अतिशया इति प्रतिपाद्यमित्येष सूत्रस्य प्रश्लेषः सम्बन्धः ॥२४९९ ॥
प्रकारान्तरेण सम्बन्धमाहअण्णो वि अत्थि जोगो, असाहुदिट्ठीहि हीरमाणाणं । वायादतिसयजुत्ता, तहियं गंतुं नियत्तंति ॥ २५००॥
सूत्र २
गाथा २४९४-२५००
आचार्योपाध्याययोः अतिशया:५
१०६७ (B)
For Private And Personal Use Only