________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् सप्तम उद्देशकः १३२५ (B)
विधवा वऽणुण्णविजइ, किं पुण पिय-माइ-भाय-पुत्तादी । सो पुण पभु वऽपभू वा, अपभू पुण तत्थिमे होति ॥ ३३२५॥
विधवाऽप्यनुज्ञाप्यते किं पुनः पिता माता भ्राता पुत्रादिर्वा स सुतरामनुज्ञाप्यः, केवलं स पुनः पुत्रभ्रातृप्रभृतिको द्विधा प्रभुर्वा भवेद् अप्रभुर्वा तत्र पुनरप्रभव इमे वक्ष्यमाणा भवन्ति ॥ ३३२५ ॥ तानेव नियुक्तिकृदाहआएस-दास-भइए, विरक्क-जामाइए उ दिण्णा य । अस्सामि मास लहुतो, सेस पभूऽणुग्गहेणं वा ॥ ३३२६॥
आदेशः प्राघूर्णकः, दासोऽङ्कितः, भृतकः कर्मकरः, विरिक्तो गृहीतरिक्तादिभागः ||३३२१-३३२६ पुत्रो भ्राताऽन्यो वा, तथा कन्या अन्यत्र पृथग्गृहे जामातरि दत्ता, एतेऽस्वामिनोऽप्रभवः, एतान् यदि अनुज्ञापयति तदा प्रायश्चित्तं मासलघु। शेषाः प्रभवः स्वामिनः, तान् अनुज्ञापयेत्।। अणुग्गहेणं वेत्ति, अप्रभूणामपि येषां प्रभुणाऽनुग्रहः कृतो यथा 'यत् त्वया कृतं दत्तं वा
४१३२५ (B) तत् प्रमाणमिति', तेन वाऽनुग्रहेणाऽप्रभूनपि अनुज्ञापयेत्, नान्यथा ॥ ३३२६ ॥
सूत्र २३ गाथा
अवग्रहानुज्ञापनाविधिः
For Private And Personal Use Only