________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् सप्तम उद्देशकः
१३१२ (B)
अधुना विवेचनमाहदटुं सोउं वा अव्वावण्णं विगिंचए विहिणा । वावन्ने परलिंगं, उवही नातो अनातो वा ॥ ३२८५ ॥
पथि कालगतं दृष्टा यदि [वा] पथि कालगत इति अन्यतः श्रुत्वा यदि तत् कलेवरमव्यापन्नम् अविभिन्नमित्यर्थः । ततः पूर्वोक्तेन विधिना विवेचयेत्। अथ स एकाकी ततः परिष्ठापयितुं न शक्नोति, यदि वा शक्नोति परं बहवः मृतास्ततः परलिङ्गं कृत्वा व्रजति। अथ तत् व्यापन्नं तदा तस्मिन् परलिङ्ग कर्त्तव्यम् । परलिङ्गकरणं नाम यत्तस्योपधिग्रहणं, स चोपधिर्द्विधा-ज्ञातो वा अज्ञातो वा । ज्ञातो नाम यथैतत् साम्भोगिकस्य साधोरुपकरणम्, अज्ञातो नाम यो न ज्ञायते किमेष साम्भोगिकस्य किंवा असाम्भोगिकस्य? इति, तत्र ज्ञातोऽज्ञातो वा तस्योपधिग्रहीतव्यः ॥ ३२८५ ॥
अथ कस्मात् परलिङ्गं क्रियते? तत आहमा णं पिच्छंतु बहू, इति नाए वी करेइ परलिंगं । गहियम्मि वि उवगरणे, परलिंगं चेव तं होइ ॥ ३२८६॥
सूत्र २१
गाथा ३२८४-३२८८ वक्रयिकशालादौ वसने दोषाः
१३१२ (B)
For Private And Personal Use Only