________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१३०३ (B)
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुशिष्टिरनुशासनम्, आदिशब्दाद् धर्मकथा च क्रियते । अथ तथापि न ददाति तर्हि से तस्य मृतस्य यानि णंतगानि अंताणि प्रान्तानि तस्मै दीयन्ते । अथ तानि नेच्छन्ति तर्हि इतराणि नवानि दीयन्ते ॥ ३२५७ ॥
कथम्भूतानीत्यत आह
अदसाइ अणिच्छंते, साहारणवयण दार मोत्तूणं ।
सति लंभ मुवारुहणं, सच्चेव विगिंचणाऽलंभे ॥ ३२५८ ॥
अदशानि दशारहितानि दीयन्ते । अथ तानि नेच्छन्ति तर्हि साधारणं वचनं भण्यतेयथाऽयं कालगतोऽवतारितस्तिष्ठतु, वयं ग्रामं प्रविश्य मार्गयामः, यदि लप्स्यामहे दास्यामो नो चेत् तर्हि तवायत्तमिदं मृतकमिति एवं साधारणं वचनमुक्त्वा तत् कलेवरं श्मशानद्वारे अवतार्य ग्राममध्ये गमनं कुर्वन्ति । सति लंभेत्यादि, यदि लब्धानि सदशानि वस्त्राणि ततः प्रत्यागत्य दत्त्वा परिष्ठापयन्ति । अथ न लब्धानि तदा राजकुले उपारोहणं चटनं चटित्वा निवेद्यते, यथा— ‘युष्मदीयः श्मशानपालकः श्मशाने व्रतिनं कालगतं मोक्तुं न ददाति, साधवो हि निष्किञ्चनाः स त्वस्मभ्यं याचते' एवं निवेद्य तस्य परुषमानीय परिप्रापयन्ति ।
For Private And Personal Use Only
गाथा
| ३२५४-३२५८ पारिष्ठाप निकाविधिः
| १३०३ (B)