________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
.
4
व्यवहार
सूत्रम् सप्तम
उद्देशकः १२९९ (B)
असतीए सुकिलाणं, दिणकालगयं निसिं विवेचंति । परिहारियं च पच्छाकडादि कोडी दुगेणं वा ॥ ३२४५॥
अथ दिवसे कालगतः परं शुक्लानि वस्त्राणि न विद्यन्ते तर्हि शुक्लानां वस्त्राणामभावे दिनकालगतं बन्धनादियतनाविषयं कृत्वा निशि रात्रौ विविंचंति परिष्ठापयन्ति। अथ रात्रौ पूर्वोक्तकारणैर्व्याघातस्तर्हि यद्यन्यत एवमेव याचने शुक्लं वस्त्रं न लभ्यते, तदा पश्चात्कृतादिषु प्रातिहारिकं शुक्लं वस्त्रं याच्यते। अथ तदपि न लभ्यते तर्हि कोटीद्विकेनाऽप्युत्पादयेत्। किमुक्तं भवति? पूर्वं विशोधिकोट्या मृग्यते, तदभावे अविशोधिकोट्यापीति ॥ ३२४५ ।।
असती नीणेउ निसिं, ठवेतु सागारि थंडिलं पेहे । थंडिलवाघायम्मि वि, जयणा एसेव कायव्वा ॥ ३२४६॥
गाथा ३२४०-३२४६ स्थण्डिलाउप्रेक्षणे दोषाः
१२९९ (B)
कोटीद्विकप्रकारेणापि शुक्लवस्त्राणामभावे निशि रात्रौ परिष्ठापयन्ति। तत्र सागारिकं शय्यातरं कालगतस्य समीपे स्थापयित्वा स्वयं साधवः स्थण्डिलं तथाविधं प्रत्युपेक्षन्ते । । अथ स्थण्डिले व्याघातस्तदा एषैवानन्तरोदिता यतना कर्तव्या ॥ ३२४६ ॥
For Private And Personal Use Only