SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् सप्तम उद्देशकः १२९८ (B) प्रत्युपेक्षितमिति न परिष्ठापितस्तत्र यदि अग्निसम्भ्रमादिषु 'कथमनाथकलेवरमिति त्यक्त्वा व्रजामः, मा प्रवचनस्याड्डाहो भूदिति' विचिन्त्य तिष्ठन्ति तस्य समीपे, तदा तेषामग्न्यादेविनाश उपधेर्वा स्तेनादिभिरपहरणम् । अथ न तिष्ठन्ति किन्तु तत् त्यक्त्वा पलायन्ते तदा ते जनमध्ये गहीं प्राप्नुवन्ति। अथवा स्थण्डिलं न प्रत्युपेक्षितमिति प्रभाते परिष्ठापयन्ति तदा मलिनैः वस्त्रैस्तस्मिन् परित्यज्यमाने प्रवचनस्य अपभ्राजना- 'अहो अमी वराका अदत्तदाना मृता अपि शोभां न लभन्ते' इति ॥ ३२४१॥ 'संभमादिसु होज्जा' इत्यादिकमेव व्याख्यानयतितेणग्गि संभमादिसु, तप्पडिबंधेण दाह हरणं वा । मइलेहि व छड्डेती, गरिहा य अथंडिले वा वि ॥ ३२४२॥ स्तेनाग्निसम्भ्रमादिषु आदिशब्दात् परचक्र सम्भ्रमादिपरिग्रहः, तत्प्रतिबन्धेन कालगतप्रतिबन्धेन तिष्ठतामग्निना दाहः स्तेनैर्वा हरणं स्यात् । अथ स्थण्डिलं न प्रत्युपेक्षितमिति प्रभाते परिष्ठापयन्ति तदा मलिनैर्वस्त्रैः उपेतं छर्दयन्तीति गर्दा स्यात् । अथैतद्दोषभयाद् रात्रावस्थण्डिलेऽपि परिष्ठापयन्ति तदा अस्थण्डिलपरिष्ठापनादोषः ॥ ३२४२॥ गाथा ३२४०-३२४६ स्थण्डिला प्रेक्षणे दोषाः १२९८ (B) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy