________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशक:
१२८७ (B)
܀܀܀܀܀܀܀
www. kobatirth.org
अत्याकुलानां बालवृद्धैरतिशयेन समाकुलानां साधूनामर्शोभगन्दरादिषु श्रमणीनां च नित्यर्त्तकानां मा नित्यं सर्वकालमस्वाध्यायो भवतु इति वाचनासूत्रमुपन्यस्तमित्येष सम्बन्धः || ३२०२ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या
Acharya Shri Kailassagarsuri Gyanmandir
न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा आत्मनः समुत्थे अस्वाध्यायिके स्वाध्यायं कर्तुं किन्तु कल्पते परस्परस्य वाचनां दापयितुम् अन्यत्र, यदि वा प्रक्षालनानन्तरं गाढबन्धे प्रदत्ते सति तत्रापि स्वयमपि वाचनां दातुं कल्पते इति वाक्यशेषः । एतदेव भाष्यकार:
सप्रपञ्चमाह
आयसमुत्थमसज्झाइयं तु एगविह होइ दुविहं वा ।
एगविहं समणाणं, दुविहं पुण होइ समणीणं ॥ ३२०३ ॥
आत्मनः शरीरात् समुत्थं सम्भूतम् आत्मसमुत्थमस्वाध्यायिकमेकविधं वा भव द्विविधं वा, तत्र यत् एकविधम् अर्शोभगन्दरादिविषयं तत् श्रमणानां भवति, श्रमणीनां पुनर्भवति द्विविधं अर्शोभगन्दरादिसमुत्थम् ऋतुसम्भवं च ॥३२०३ ॥
For Private And Personal Use Only
सूत्र १७ गाथा
| ३१९९-३२०३ आत्मसमुत्थे * अस्वाध्यायिके विधिः
१२८७ (B)