________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्र गन्तव्यं, तत्र वैद्यस्य प्रायोग्यस्यौषधस्याशनादेश्च प्राप्यमाणत्वात्, तत्र ये उपसर्गान् सोढुं समर्था ये च परिश्रमेण न गृह्यन्ते [ते] यतनया वक्ष्यमाणया यान्ति गच्छन्ति ॥ २४६१॥
श्री व्यवहारसूत्रम् षष्ठ उद्देशकः
܀܀܀܀܀܀܀܀܀܀܀܀
१०५७ (B)
तामेव यतनामाहबहिय अणापुच्छाए, लहुगा लहुगो य दोच्चणापुच्छा । आयरियस्स वा लघुका, अपरिच्छियपेसवंतस्स ॥२४६२॥
अत्रेदं सूत्रं पतति 'नो से कप्पति थेरे अणापुच्छा नायविहिं एत्तए' इत्यादि, तत्र यदि बहिः स्थविराणामनापृच्छ्य व्रजति ततस्तस्य प्रायश्चित्तं चत्वारो लघुकाः, स्थविरान् आपृच्छय तैर्विसर्जितो यदि द्वितीयं [वारं] स्थविरान् अनापृच्छय व्रजति ततो द्वितीयानापृच्छायां मासलघु। आचार्योऽपि यद्यपरीक्षितान् प्रेषयति ततस्तस्यापरीक्षितान् प्रेषयतश्चत्वारो | लघुकाः प्रायश्चित्तम् ॥ २४६२ ॥
तम्हा परिच्छियव्वो, सज्झाए तह य भिक्खभावे य । थिरमथिरजाणणट्ठा, सो उ उवाएहिमेहिं तु ॥२४६३॥
गाथा २४५६-२४६३
स्वजनगृहे भिक्षाग्रहणे
अग्रहणे च दोषाः
X.
१०५७ (B)
For Private And Personal Use Only