________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैरात्रिको न शुद्धयति कालस्तदा तेनैवार्द्धरात्रिकेण कालेन पठित्वा प्राभातिकं कालं गृह्णन्ति । एवमेते त्रयः काला भवन्ति ॥ ३१८५ ॥
श्री व्यवहारसूत्रम् सप्तम
उद्देशकः १२८२ (B)
अत्रैव प्रकारान्तरमाहअहवा पढमे सुद्धे, बितियअसुद्धम्मि होंति तिन्नेवं । पातोसिय वेरत्तिय, अतिउवओगा भवे दोन्नि ॥ ३१८६॥
अथवेति प्रकारान्तरोपप्रदर्शने, प्रथमे प्रादोषिके काले शुद्धे, द्वितीये अर्द्धरात्रिणि काले अशुद्ध त्रय एव काला भवन्ति। उपलक्षणमेतत् , तेन प्रादोषिके वा प्राभातिके वा अशुद्धे त्रय इत्यपि द्रष्टव्यम्। कथं द्वौ कालौ भवतः? इत्यत आह-प्रादोषिके काले गृहीते अर्द्धरात्रिके चाऽगृहीते चरमायां पौरुष्यामवगाढायां वैरात्रिके काले गृहीते कालिकश्रुतं परावर्त्तयद्भिः स्वाध्यायविषयेऽत्युपयोगभावतस्तावन्न ज्ञाता प्राभातिककालवेला यावत् सन्ध्या उपस्थिता। एवं मातृस्थानविमुक्तानामशठानामपवादपदेन द्वौ कालौ भवतः। तद्यथा-प्रादोषिको वैरात्रिकश्च ॥ ३१८६॥
गाथा ३१८४-३१८९ | कालग्रहणसङ्ख्याविचारः
१२८२ (B)
For Private And Personal Use Only