________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १२७८ (B)
यः स्वाध्यायप्रस्थापनवेलायां नागतस्तस्य कालदानाकरणमितरेषां तु प्रस्थापनवेलाऽऽगतानां कालदानकरणमिति ॥ ३१७० ।।
एतदेवाहसन्निहियाण वडारो, पट्ठविए पमादि णो दए कालं । बाहिठिए पडियरए, पविसइ ताहे य दंडधरो ॥ ३१७१॥ [ओघनि.६५५ ]
स्वाध्याये प्रस्थापिते ये स्वाध्यायप्रस्थापनवेलायां प्रमादिनो नाऽऽगतास्तेषां कालं न दद्यात्, शेषाणां तु दद्यात्। तथा चात्र मरुकज्ञातं विजृम्भते। यः समवाये नाऽऽगतस्तस्य वडारो भागो न दीयते, सन्निहितानां तु दीयते । एवमत्रापि ये प्रस्थापनवेलायां नागतास्ते प्रमादेन तीर्थकराज्ञाभङ्गकारिण इति कालस्तेषां न दातव्यः, शेषाणां तु दातव्य इति। स्वाध्यायप्रस्थापनानन्तरं च कालग्राही अन्यो वा बहि:स्थितः कालं प्रतिचरति, ततो दण्डधरः स्वाध्यायप्रस्थापनार्थं मध्ये प्रविशति ॥३१७१॥ १. दृष्टान्तं ओघनि. टीकायां द्रष्टव्यम् ॥
गाथा .३१७०-३१७५
कालग्रहणविधिः
१२७८ (B)
For Private And Personal Use Only