________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् सप्तम
उद्देशकः १२७० (B)IX
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
दुविहो उ होइ कालो, वाघाइम एयरो य नायव्वो । वाघातो घंघसालाए घट्टणं धम्मकहणं वा ॥ ३१४३।। [ओघनि.६३९]
इह कालो द्विविधो भवति, तद्यथा-व्याघातिम इतरश्च । व्याघातेन निर्वृत्तो व्याघातिमः, "भावादिम" इति इमप्रत्ययः । इतरो निर्व्याघातः । तत्र व्याघातो नाम घशालायां घट्टनं धर्मकथनं वा, तत्राव्यतिरिक्ता बहुकार्पटिकाऽऽसेविता वसतिः घङ्घशाला तस्याम्। इयमत्र भावना- घवशालास्थितानां साधूनामतिदूरमागच्छतोर्गच्छतोर्वा कालप्रत्युपेक्षकयोः स्खलनं पतनं वा भवति। अथवा कृते आवश्यके गुरूणां श्राद्धादीनामग्रतो धर्मः कथयितव्यो वर्त्तते, ततो निवेदने व्याघातः । एवंरूपेण घट्टनलक्षणेन वा व्याघातेन निर्वृत्तो व्याघातिमः । इतरो | निर्व्याघातः । तत्र निर्व्याघाते द्वौ जनौ कालप्रत्युपेक्षको प्रवर्तेते, तौ कालं प्रत्युपेक्ष्य आचार्यस्य निवेदयतः। व्याघातिमे तु काले उपाध्यायस्तृतीयः कालप्रत्युपेक्षकयोर्दीयते येन तौ तस्यैव पुरतः कालं निवेदयतः। एवं ते द्वौ त्रयो वा जना आचार्य 'मस्तकेन वन्दामहे' इत्यनेन वचनेनाऽभिमुखीकृत्य पृच्छन्ति- 'सन्दिशत कालप्रत्युपेक्षका वयं व्रजाम' इति । एवमापृच्छ्य निर्व्याघाते गुरूणाम्, इतरथोपाध्यायस्य वन्दनकं दत्त्वा 'प्रादोषिकं कालं गृह्णीम' इत्यापृच्छ्य
गाथा ३१४१-३१४७ कालग्रहणविधौ काल| वधनिमित्ता
दीनि
ध्य
/
१२७० (B)
For Private And Personal Use Only