________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
.
श्री व्यवहारसूत्रम्
षष्ठ उद्देशकः १०५५ (B)
अत्र प्रायश्चित्तविधिमाहएक्कम्मि दोसु तीसु व, मूलणवट्ठो तहेव पारंची । अह सो अतिवाइज्जइ, पावइ पारंचियं ठाणं ॥२४५४॥
एकस्मिन्नतिपातिते मूलप्रायश्चित्तभाग् भवति द्वयोरतिपातितयोरनवस्थाप्यस्त्रिष्वतिपातितेषु पाराञ्ची। अथ स एवातिपात्यते साधुस्तर्हि स यदि कथमपि जीवति ततः पाराञ्चितं स्थानं प्राप्नोति ॥ २४५४॥
अन्यान् दोषानाहअहवा वि धम्मसद्धा, साहू तेसिं घरे न गेण्हंती । उग्गमदोसादिभया, ताहे नीया भणंति इमं ॥२४५५ ॥
अथवेति प्रकारान्तरेण दोषकथनोद्योतने साधवो धर्मश्रद्धा उद्गमदोषादिभयात् तेषां | गृहे न किमपि गृह्णन्ति ततस्ते निजाः स्वजना इदं भणन्ति ॥२४५५ ॥
किं तदित्याह
गाथा २४४९-२४५५
ज्ञातविधि गमने दोषाः प्रायश्चित्तं च
१०५५ (B)
For Private And Personal Use Only