________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
१०५४ (B)
www. kobatirth.org
उद्भ्रामके उद्भ्रामकभिक्षाचर्यागतेऽधिकृते भृतकरूपे साधौ वोद्रे मूर्खे तस्य भृतकस्य सा भृत्या छागघातं ददाति, कुपिता सती छागमिव तं घातयतीत्यर्थः ७ ॥ २४५० ॥
अधुनाऽनुलोमोपसर्गद्वारमाह
मा छ कुलतंतू, धणगोत्तारं तु जणयमेगसुयं । दारं ८ । वत्थऽन्नमादिहिं, अभिजोग्गेउं च तं नेति ॥ २४५१ ॥ दारं ९ ।
Acharya Shri Kailassagarsuri Gyanmandir
तस्य ज्ञातविधिगतस्य साधोर्ज्ञातविधिरेवं ब्रूयात् 'मा छिद्यतां छेदं यायात् कुलतन्तुः कुलसन्तानस्तस्मात् धनरक्षकमेकं सुतं प्रसादं कृत्वा जनय, पश्चात् पुनर्व्रतं गृह्णीथाः '। एवमुक्तः सन् कश्चित् उत्प्रव्रजेत् ८ । अधुना अभियोग्यद्वारमाह - वस्त्रान्नादिकैरादिशब्दात् खादिमस्वादिमादिविशेषपरिग्रहः, तैरभियोज्य वशीकृत्य स्वजनास्तमात्मसमीपं नयन्ति ९ ॥ २४५१ ॥
विषद्वारमाह
नेच्छंति देवरा मं, जीवंति इमम्मि इति विसं देज्जा ।
अन्नेण व दावेज्जा, दा. १० । ससुरो वा से करेइ इमं ॥ २४५२ ॥
For Private And Personal Use Only
गाथा २४४९-२४५५ ज्ञातविधि गमने दोषाः
* प्रायश्चित्तं च
१०५४ (B)