________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् सप्तम
उद्देशकः १२४२ (A)
तथा च तत्र प्रायश्चित्तमाहसंजय संजतिवग्गे, ऽसंविग्गेक्कक्के अहव दोहिं तु । निक्खेवणे होति गुरुगा, अह पुण सुद्धेविमे दोसा ॥ ३०५५॥
संयतवर्गे संयतीवर्गे वा एकैकस्मिन् असंविग्ने एतेन द्वितीयतृतीयभङ्गौ गृहीतौ, अथवा द्वयोरपि संयतसंयतीवर्गयोरसंविग्नयोरनेन प्रथमभङ्गो गृहीतः, निक्षेपणे प्रायश्चित्तं चत्वारो गुरुका भवन्ति, नवरं तपःकालविशेषिताः, प्रथमभङ्गे द्वाभ्यामपि विशेषिताः। अथ पुनः शुद्धेऽपि चतुर्थे भङ्गे इमे वक्ष्यमाणा दोषास्तर्हि तत्रापि निक्षेपणे चत्वारो गुरुकाः ॥ ३०५५ ॥
सम्प्रति तानेव दोषानाहतरुणा सिद्धपुत्तादी, पविसंति नियल्लगाण निस्साए । मयहरिय निवारेंती, जे वि य पडिसेवे तहिं किंचि ॥ ३०५६॥
तरुणाः सिद्धपुत्रादयो निजकानामात्मीयानामार्यिकाणां निश्रया वन्दनव्याजेन प्रविशन्ति, प्रविश्य च तत्रैव चिरकालमवतिष्ठन्ते, तन्महत्तरिका यदि न निवारयति येऽपि च तत्र वसतौ काञ्चिदार्यिकामात्मीयां प्रतिसेवन्ते पर्युपासते, पर्युपासीनाश्च चिरकालं तिष्ठन्ति
गाथा ३०५५-३०६४
अपवादपदे संयतीवाचनायां
यतना
.१२
१२४२ (A)
For Private And Personal Use Only