________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
सप्तम उद्देशकः
१२४१ (A)
तथा चैव हस्तिशालानां घोटकशालानां चासन्ने प्रदेशे हिण्डन्ते, यदि वा तासां प्रत्यासन्ने उपाश्रये वसन्ति१२ । तथा इक्ष्वादियन्त्रशालां गच्छन्ति तत्समीपे वा वसन्ति१३ । व्रजद्वारं सुगमत्वान्न विवृतम्। काथिकत्वं वा कुर्वन्ति ॥ ३०५१॥ सम्प्रति स्थलीघोटकद्वारे(रयोः) दोषमाह
थलिघोडादि निरुद्धा, पसज्झ गहणं करेज तरुणीणं । संका य होइ तहियं, गोयर किमु पाडिवेसेहिं ॥ ३०५२॥
स्थली-घोटादयोऽनेकप्रकारा देवडिंगरा निरुद्धाः कृतबस्तिनिरोधाः सन्तस्तरुणीनां प्रसह्य बलात्कारेण ग्रहणं कुर्युः, ततो गोचरेऽपि तत्र गतानां शङ्का भवति, किं पुनस्तैः प्रातिवेश्मिकैः? तेषु प्रातिवेश्मिकेषु सुतरां शङ्का। एवं हस्तिशालादिष्वपि दोषविभाषा यथायोगं कर्तव्या॥ ३०५२ ॥
काथिकद्वारमेव सविस्तरं गृहिनिषद्याबाधनद्वारं चाहसज्झायमुक्कजोगा, धम्मकहा विकह पेलणगिहीणं । गिहिनिसिजं च, बाहंती संथवं वा करेंति उ ॥ ३०५३॥ स्वाध्यायेन मुक्तो योगो व्यापारो यासां ता स्वाध्यायमुक्तयोगाः, तथाभूताः सत्यो गृहिणां
.
गाथा ४३०४७-३०५४
असंविग्नस्वरूपम्
.
४१२४१ (A)
For Private And Personal Use Only