________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
सप्तम
उद्देशकः
१२३९ (A)
www. kobatirth.org
तथा चित्तलानि वस्त्राणि परिदधति, तथा सविकारा गतावुल्लापे च विकारसहिताः । तथा बहुशो अनेकप्रकारं मुख - नयन - कक्षा - हस्त पादादीनामुच्छोलनम् प्रक्षालनं कुर्वन्ति । तथा कल्पस्थानि डिम्भरूपाणि रमयन्ति मण्डयन्ति ममीकुर्वन्ति वा । तथा स्थल्यो देवद्रोण्यस्तासु भिक्षार्थं व्रजन्ति । तत्र घोटा डिङ्गरास्ते निरुद्धा बलादपि गृह्णन्ति, स्थल्यां वा समवसृतो य उपाश्रयस्तत्र वसन्ति । वेश्यागृहाणि वा हिण्डन्ते, तत्पाटके वा वसतौ तिष्ठन्ति । शाला हस्तिशाला अश्वशाला वा तासु हिण्डन्ते, तासां वा समीपे उपाश्रये तिष्ठन्ति । यन्त्राणि इक्षुयन्त्रतैलयन्त्रादिगृहाणि तानि हिण्डन्ते, तन्मध्ये वा उपाश्रये वसन्ति । तथा व्रजान् गोकुलानि व्रजन्ति । काथिकादित्वं वा कुर्वन्ति गृहिनिषद्यां वा बाधन्ते । एष द्वारगाथाद्वयसमासार्थः ॥ ३०४४ ॥
।
साम्प्रतमेतदेव विवरीषुः प्रथमतः आलोचनाद्वारं सच्छंदद्वारं चाहजा जत्थ गया साउ, नालो दिवसपक्खियं वा वी सच्छंदातो वयणे, महत्तरियाए न ठायंति ॥ ३०४५ ॥ १. डिङ्गरास्तैः नि° सं. । डिङ्गर सेवक धूतारो इति 'शब्दरत्नमहोदधौ ' ॥
दारं २ ।
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
दारं १ ।
****
गाथा
| ३०४०-३०४७ संविग्नत्वपरीक्षा
१२३९ (A)