________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् सप्तम
उद्देशक: १२१६ (A)
न कल्पते निर्ग्रन्थानां व्यतिकृष्टानि क्षेत्रविकृष्टानि प्राभृतानि कलहानीत्यर्थः वितोषयितुमुपशामयितुं, किन्तु यत्रोत्पन्नं तत्रोपशमयितुं कल्पते इत्येष सूत्राक्षरार्थः ॥ अत्र भाष्यप्रपञ्चः
सेज्जासणेऽतिरित्ते, हत्थादी घट्टभाण भेदे य । वंदंतमवंदंते, उप्पज्जइ पाहुडं एवं ॥ २९६०॥
शय्यासनातिरिक्ते, किमुक्तं भवति? अतिरिक्तां शय्यामतिरिक्तानि वाऽऽसनानि परिग्रहे कुर्वति वार्यमाणे यदि वा हस्तादि हस्तपादादिकं पादेन सङ्घट्याऽऽक्रम्याऽक्षमयित्वा व्रजति, यद्वा कथमप्यनुपयोगतो भाजनभेदे अथवा पूर्वं वन्दमाने पश्चादवन्दमाने प्राभृतं नाम कलहस्तदेवमुत्पद्यते ॥ २९६० ॥ __ अहिगरणस्सुप्पत्ती, जा वुत्ता परिहारियकुलम्मि।
सम्ममणाउट्टते, अधिकरण ततो समुप्पज्जे ॥ २९६१ ॥
[अंधिकरणस्य कलहस्य उत्पत्तिः या पारिहाकुले उक्ता] ततः सम्यगनावर्त्तमानेऽ- : धिकरणं समुत्पद्यते ॥२९६१ ।। १. पु.प्रे. मध्ये - उत्पत्तिसम्भवेसत्यां ततः - इति पाठः ॥
गाथा २९६०-२९६७ कलहकारकं
प्रति
सामाचारी
१२१६ (A)
For Private And Personal Use Only