________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
४
षष्ठ
उद्देशकः
१०४९ (A)
णमिति वाक्यालङ्कारे, [से] तस्य ज्ञातविधिमागतस्य पश्चादा(पूर्वा)गमनेन आगमनात् पश्चात् (पूर्व) यः पूर्वायुक्तश्चाउलोदनः । पूर्वायुक्त इति केचित् व्याचक्षते आगमनात् पूर्वं चुल्यामारब्धो रन्धनाय, अपरे व्याचक्षते आगमनात् पूर्वं पाकाय समीहितम्, एतत् मतद्वयमप्यसङ्गतम्, आरब्धे समीहिते च पुनः प्रक्षेपसम्भवात्, तस्मात् पूर्वायुक्त इति किमुक्तं भवति-आगमनात् पूर्व गृहस्थैः स्वभावेन रध्यमानः (राद्धः) स तन्दुलोदनो [कल्पते । पश्चात्प्रवृत्तः] भिलिङ्गसूपो नाम सस्नेहः सूपः स [न]कल्पते प्रतिग्रहीतुम्, योऽसौ तत्र पूर्वागमनेन पूर्वमागताः साधव इति हेतोः पश्चादायुक्त-प्रवृत्तस्तन्दुलोदनो भिलिङ्गसूपो वा नासौ कल्पते प्रतिग्रहीतुम् । एष सूत्रसङ्केपार्थः । अत्र भाष्यकारो ज्ञातविधिपदं व्याख्यानयति--
अम्मापितिसंबंधो, पुव्वं पच्छा व संथुया जे उ । एसो खलु नायविही, णेगा भेया य एक्कक्के ॥ २४२९ ॥
मातृद्वारेण पितृद्वारेण च यः सम्बन्ध एष ज्ञातविधिः । अथवा ये पूर्वसंस्तुता |* मातापित्रादयो ये च पश्चात् संस्तुताः श्वश्रू-श्वशुरादयः, एष समस्तोऽपि ज्ञातविधिः। | एकैकस्मिंश्च मातृद्वारे पितृद्वारे च यदि वा पूर्वसंस्तुते पश्चात्संस्तुते चानेकभेदाः । अनेन
सूत्र १
गाथा २४२७-२४३१ ज्ञातविधि
गमनसामाचारी
10/
१०४९ (A)
For Private And Personal Use Only