________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
M
श्री
.
.
.
व्यवहार
सूत्रम् सप्तम
उद्देशक: ११९२ (A
नायमणाए१ आलोयणाउ२ अणालोयणे भवे गुरुगा । गीयत्थे आलोयण, सुद्धमसुद्धं विविंचंति ॥ २८८७॥ दारगाहा।
ज्ञाते अज्ञाते वा सम्भोगे आलोचना दातव्या, तदनन्तरं तैः सह सम्भुज्यते । यदि पुनरनालोचिते परस्परं भुञ्जते तदा भवन्ति चत्वारो गुरुकाः प्रायश्चित्तम्, सा चालोचना गीतार्थैर्दातव्या सुद्धमसुद्धं विविंचंति इति, शुद्धोऽशुद्धो वा य उपधिस्तं विविञ्चन्ति पृथक् कुर्वन्ति, विवेच्य यो यो निष्कारणे उद्गमादिभिरशुद्धो गृहीतो यश्च कारणे वा अयतनया तयोः परित्यागः कर्त्तव्यः तन्निष्पन्नं च प्रायश्चित्तं प्रतिपद्यन्ते। एष नियुक्तिगाथासमासार्थः ॥ २८८७॥ गाथा
२८८७-२८९३ साम्प्रतमेनामेव विवरीषुः प्रथमतो 'नायमनाए' इत्यस्य व्याख्यानमाह
आर्यसुहस्तित:
परीक्ष्य अविणढे संभोगे, नायमनाए य नासि पारिच्छा ।
आलोच्य पच्छोवसंपयं खलु, सेहं वाऽऽसज्ज आरे वी ॥ २८८८ ॥ दारं १ ॥ सहभोजनादिः
आर्यमहागिरेः परतः सम्भोगोऽविनष्ट आसीत् । तदा ज्ञात अज्ञाते वा नास्ति ||११९२ (A) द्रव्यादिभिः परीक्षा आर्यसुहस्तिशिष्यद्रमकप्रव्रज्याप्रतिपत्तिप्रभृतित आरात् विनष्टः सम्भोग
For Private And Personal Use Only