SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् षष्ठ उद्देशकः ११४२ (A) सम्प्रति यशः संयम इत्येकार्थतायां भगवद्वचनमुपदर्शयतिजसं समुपजीवंति, जे नरा वित्तमत्तणो । अलेस्सा तत्थ सिझंति, सलेसा उ विभासिया ॥ २७३१॥ ये नरा मनुष्या वृत्तमात्मन इच्छन्ति ते यशः समुपजीवन्ति संयममुपजीवन्ति इत्येतत् । व्याख्याप्रज्ञप्तौ राशियुग्मशते भणितम् । तथा च तद्ग्रन्थः- 'मणस्साणं भंते ! किं आयजसं उवजीवंति'? आत्मसंयममित्यर्थः, 'आय अजसं उवजीवंति' आत्माऽसंयममित्यादि। एवं यश:संयमावेकार्थावुक्तौ । तत्र ये अलेश्या: शैलेशीप्रतिपन्नास्ते नियमात् सिध्यन्ति, सलेश्याः पुनर्विभाषिता विकल्पिताः, केचित् सिध्यन्ति केचित् न सिध्यन्ति इत्यर्थः । तत्र ये भव्यास्ते सिध्यन्ति। तत्राहमशुभकर्म समाचरन्न भव्यो भविष्यामीति भयतो नाशुभकर्म समासेवते ॥२७३१ ॥ दाहिति गुरू दंडं, जइ नाहिंति तत्ततो । तं च वोढुं न चाइस्सं, घायमादी उ लोगतो ॥ २७३२॥ यदि परस्त्र्यादिकं सेविष्ये ततो यदि गुरवस्तत्त्वतो ज्ञास्यन्ति तदा दण्डं प्रायश्चित्तमुग्रं | गाथा २७३१-२७३८ अपृथग् वसतौ लाभाः ११४२ (A) For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy