________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
षष्ठ
उद्देशकः
११४१ (A)
www. kobatirth.org
न केवलं प्रायश्चित्तं किन्त्वन्येऽपि च दोषाः । तथा चाह
आणादिणो य दोसा, विराहणा होइ संजमायाए । लज्जा-भय- गोरव धम्मसड्ढारक्खा चउद्धा ॥ २७२८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अन्तर्निवेशनस्याभिनिर्वगडायां वसतौ तिष्ठत आज्ञादयो दोषाः । तथा संयमविराधना आत्मविराधना । एते यथा प्राक्चतुर्थपञ्चमातिशये भाविते, तथा भावनीये । यदि पुनरनभिनिर्वगडायां वसतौ वसति तदा पापं कर्त्तुमिच्छतो लज्जातो भयतो गौरवतो धर्मश्रद्धातो वा रक्षा चतुर्विधा स्यात् । किमुक्तं भवति ? अनभिनिर्वगडायां वसतौ वसन् संयमविराधनारूपमात्मविराधनारूपं वा पापं लज्जादिभ्यो न कुर्यादपि ॥ २७२८ ॥
तत्र प्रथमतो लज्जाद्वारं भावयति
लज्जणिज्जो उ होहामि, लज्जए वा तमायरं । कुलागमतपस्सी वा, सपक्खपरपक्खतो ॥ २७२९॥
For Private And Personal Use Only
***
गाथा
| २७२५-२७३० गीतार्थस्यापि
पृथक् वसतौ निवासनिषेधः
११४१ (A)