________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
षष्ठ
उद्देशकः
११४० (B)
स्याल्पश्रुतस्येति सूत्रसक्षेपार्थः ॥ सम्प्रति भाष्यविस्तरः
अंतो वा बाहिं वा, अभिनिव्वगडाए ठायमाणस्स । गीयत्थे मासलघु, गुरुतो मासो अगीयत्थे ॥ २७२६ ॥
अन्तरुपाश्रयस्य अभिनिर्वगडायां पृथक् परिक्षेपायां वसतौ यथा एकस्यां वलभ्यां विष्वक् अपवरके बहिरुपाश्रयस्याभिनिर्वगडायामन्यस्मिन् प्रतिश्रये यदि गीतार्थो भिक्षुर्वसति तदा तस्य तत्र तिष्ठतो गीतार्थस्य प्रायश्चित्तं मासलघु अगीतार्थस्य गुरुको मासः ॥ २७२६॥
साम्प्रतमन्तर्बहिर्वा गृहस्य या अभिनिर्वगडा तस्याः प्रकारानाहअंतो निवेसणस्स, साहीमादीव जाव सग्गामो । घरवगडाए सुत्तं, एमेव य सेसवगडासु ॥ २७२७॥ निवेशनस्य गृहस्याऽन्तरभिनिव्वगडो अथवा निवेशनात् बहिरन्या वसतिरभिनिर्वगडा तस्यां मुख्यतो द्रष्टव्यम्, एवमेव शेषवगडासु निवेशनाद्बहिरभिनिर्वगडाप्रकारेषु च। तत्र गीतार्थानामगीतार्थानां भिक्षूणामेकाकिनां वसतां प्रायश्चित्तं तदेव प्रागुक्तम् ॥ २७२७ ॥ १. निर्विग० सं. । एवमग्रेऽपि
x.
गाथा २७२५-२७३० गीतार्थस्यापि पृथक् वसतौ निवासनिषेधः
X.
.
११४० (B)
For Private And Personal Use Only