________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
षष्ठ
उद्देशकः ११३९ (B)
एइ व पडिच्छए वा, मेहावि कलावकाउमवराधे । अतिदूरे पुण पणए, पक्खे मासे परतरे वा ॥ २७२४॥
यस्तेषां स्पर्द्धकसाधूनां मध्ये कोऽपि साधुर्मेधावी सर्वेषां साधूनामपराधान् हृदये धारियतुमलं तेन स्पर्द्धकसाधव आलोचयन्ति तद्यथा-स तेषामपराधपदानि कलापं कृत्वा हृदये संपिण्ड्याचार्यसमीपमागत्याऽऽलोचयति। तानि चाऽऽचार्यः श्रुत्वा यद्यापन्नाः प्रायश्चित्तं ततो यत् येनापन्नं प्रायश्चित्तं तमेनमित्थं वाहयेदिति भणित्वा प्रेषयति। सोऽपि च साधुस्तेषां तत् कथयति प्रायश्चित्तं च, तेऽपि साधवस्तद्वहन्ति । पडिच्छए व त्ति, अथवा आचार्य आत्मीयात् स्पर्द्धकात् विनिर्गत्य येन प्रदेशेन इतरौ स्पर्धकावागच्छ तस्तस्मिन् प्रदेशे अन्तरा प्रतीक्षमाणस्तिष्ठति, तत्र स्पर्द्धकसाधव आगच्छन्ति एको वा मेधावी, अत्राप्यालोचनादिकं तथैव । अइदूरेत्यादि, यद्यतिदूरे स्थितास्तदा पञ्चमे पञ्चमे दिवसे यदि वा पक्षेण अथवा मासेन मासेन परतरे वेति, परतरेण वा व्यर्धमासादिना समागच्छन्ति आगत्य चाचार्यादिसमीपे शोधिं कुर्वन्ति ॥ २७२४॥
सूत्रम्- से गामंसि वा जाव रायहाणिंसि वा अभिनिव्वगडाए अभिनिदुवाराए
गाथा २७२०-२७२४ यूथक्वसतां प्रायश्चित्तदानविधिः
११३९ (B)
For Private And Personal Use Only