________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
षष्ठ उद्देशकः
११३७ (A)
भैक्षाऽलाभे उभयालाभे वा विष्वस्थितानां प्रतिदिवसमाचार्यस्तेषामन्तिकं गत्वा तानालोकते प्रतिपृच्छादिदानेन तेषां सारां करोतीत्यर्थः ॥ २७१५ ॥
किं कारणमाचार्येण प्रतिदिवसं तेषां समीपं गन्तव्यमत आहसइरीभवंति अणवेक्खणाए जह भिन्नवाहणा लोए । पडिपुच्छसोधिचोयण, तम्हा उ गुरू सया वयई ॥ २७१६ ॥
[लोके ] भिन्नप्रवहणा स्वैरिणो भवन्ति एवं तेऽपि[उपेक्षणायां] स्वैरिणो जायन्ते तस्मात् प्रतिपृच्छा-शोधिशिक्षादिदानाय गुरुः सदा तेषामन्तिकं व्रजति ॥ २७१५ ॥
तस्य पुनराचार्यस्य तेषां समीपं व्रजतस्तैर्यत् कर्त्तव्यं तदाहतण्हाइयस्स पाणं, जोग्गाहारं च नेति पच्चोणिं । किइकम्मं च करेंती, मा जुन्नरहो व सीएज्जा ॥ २७१७॥
येषां समीपमाचार्यो गच्छति ते आचार्यस्य पच्चोणिं सम्मुखं तृष्णार्दितस्य अतिशयतृषितस्य योग्यं पानं पानीयं योग्यमाहारं च प्रथमालिकानिमित्तं नयन्ति कृतिकर्म
गाथा २७१२-२७१९ भिन्नवसतौ स्थिातानां समीपगमने
यतना
११३७ (A)
For Private And Personal Use Only