________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
षष्ठ उद्देशकः ११३० (B)
सम्प्रति ग्लानत्वादिद्वारचतुष्टयमाहगेलेण्णे वोच्चत्थं, करेंति दा. ४ न य मयविधिं वि याणंति दा.५।। अद्धाणमडंति सया, जयण न याणे दा.६ व ओमे । वि दा ७॥ २६९६॥
ग्लानत्वेऽज्ञानतो विपर्यासं कुर्वन्ति, अनागाढे आगाढकृत्यमागाढेऽनागाढकृत्यम्, उभयत्राऽपि प्रायश्चित्तं चतुर्गुरुकम्, गतं ग्लानद्वारम् दा.४। अथ कालगतद्वारमाह-न च मृतस्य विधिं बन्धनछेदनादिकं परिष्ठापनाविधिं वा जानन्ति मृतस्योपधिरुपहत इति [मत्वा] त्यज्यते। दा.५ । सम्प्रत्यध्वद्वारमाह-अध्वानं पन्थानमजानन्तः सदा सर्वकालं रात्रौ दिवसे चाऽटन्ति, न च कारणतो रात्रावपि गमने यतनां जानन्ति दा.६ । एवमवमेपि अवमौदर्येऽपि वक्तव्यं, तत्रापि यतनां न जानन्तीति भावः। दा.७॥ २६९६॥
सम्भ्रमादिद्वारकदम्बकमाहअगणादिसंभमेसु य, बोहिगमेच्छादिएसु य भएसु । रायदुट्ठाईसु य, विराहगाजयण याणंता ॥ २६९७॥
गाथा
२६९४-२७०१
अगीतार्थनिश्रायां दोषाः
११३० (B)
For Private And Personal Use Only