________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् षष्ठ
उद्देशकः ११२६ (A)
न तस्य कोऽप्यपराधः प्रायश्चित्तदण्डो वा । सम्प्रति महापानशब्दस्य व्युत्पत्तिमाह-पिबतीति वा मिनोतीति वेति द्वावपि शब्दावेतावविरुद्धौ, तत्त्वत एकार्थावित्यर्थः । तत एवं व्युत्पत्तिः पिबति अर्थपदानि यत्र स्थितस्तत् पानं, महच्च तत् पानं च महापानमिति ॥ २६८३ ॥
वा अंतो गणीव गणो वा वक्खेवो मा हु होज अग्गहणं । वसभेहिं परिक्खित्तो उ अच्छंते कारणे तेहिं ॥ २६८४॥
अन्तर्गणी गणो वा वाशब्दादेवं बहिः । इयमत्र भावना-यद्याचार्यो वसतेरन्तस्ततो गणो बहिर्वसति अथ गणोऽन्तस्तत आचार्यो बहिः, किंकारणमाचार्यो गणश्च विष्वक् वसतिस्तत आह- वक्खेवो इत्यादि, आचार्यस्य विद्यादि गुणयतो व्याक्षेपो मा भूत्, | अग्रहणमिति अयोग्यानां विद्यादीनां ग्रहणं [मा] भूयात् । एताभ्यां कारणाभ्यां वृषभैः परिक्षिप्तोऽन्तर्बहिर्वा विष्वगाचार्यो वसति ॥ २६८४ ॥
सूत्रम्- गणावच्छेइयस्स णं गणंसि दो अइसेसा पण्णत्ता, तं जहा-गणावच्छेइए | अंतो उवस्सयस्स एंगरायं वा दुरायं वा एगओ वसमाणे नाइक्कमइ । गणावच्छेइए बाहिं उवस्सयस्स एंगरायं वा दुरायं वा एगओ वसमाणे नाइक्कमइ । ३। १.कर्णात् पठनातो वि० आहोर - मु. ॥२-३. एगओ K. मु. - श्युब्रींग च नास्ति ।
सूत्र ३
B/
गाथा २६८४-२६८८ | गणावच्छेदकस्य अतिश
यद्वयम्
११२६ (A)
For Private And Personal Use Only