________________
Shri Mahavir Jain Aradhana Kendra
व्यवहार
सूत्रम्
उद्देशकः
११२३ (A)
܀܀܀܀
܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यदि भिक्षुरुपाश्रयस्याऽन्तः अपवरके विष्वक् वसति यदि वा बहिरुपाश्रयात् शून्यगृहादिषु तदा तस्य प्रायश्चित्तं मासिकं लघु, न केवलमिदं प्रायश्चित्तं किन्तु दोषाश्च । तानेवाह—अन्तर्बहिर्वा शून्ये स्थाने वसतोऽशुभोदयोऽशुभकर्मोदयो भवति तद्भावाच्चात्मविराधना संयमविराधना च ॥ २६७३ ॥
तामेव भावयति
तब्भावुवयोगेणं, रहिए कम्मादि संजमे भेदो ।
मेराsaलंबिया मे, वेहाणसमादि निव्वेदो ॥ २६७४ ॥
तस्य भावस्तद्भावः, पुंवेद इत्यर्थः । तस्मिन्नुपयोगस्तद्भावोपयोगस्तेन तद्भावोपयोगेन विजने स्थाने वर्तमानः सहायरहितो हस्तकर्म्मादि कुर्यात्, एवं संयमे संयमस्य भेदो विराधना, तथा कोऽप्यतिप्रबल पुंवेदोदयपीडित एवं चिन्तयेत् यथा मया मर्यादा सकलजनसमक्षं गुरुपादसमीपेऽवलम्बिता सम्प्रति चाहमतिपीडित आसितुं न शक्नोमि ततो निर्वेदात् वैहानसमुल्लम्बनम् आदिशब्दादन्यद्वा आत्मघातादिकमाचरेत् । एषा आत्मविराधना । तस्माद्
For Private And Personal Use Only
गाथा
२६७०-२६७६ निष्कारण्ण
विष्वक्
वसने
दोषाः
| ११२३ (A)