________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
18
श्री
1
व्यवहारसूत्रम्
षष्ठ उद्देशकः १११२ (A
न लुओ अह साली उ, वक्खेवेण तेण उ । वक्खेवे रयाणं, तु पोरिसी एव भज्जइ ॥ २६३४॥
जहा सालिं लुणावेंतो कोऽपि कुटुम्बी निजे क्षेत्रे अत्थारिएहिं तु ये मूल्यप्रदानेन | शालिलवनाय कर्मकराः क्षेत्रे क्षिप्यन्ते ते अस्तारिकास्तैर्लावयन् कथमपि सप्ताङ्गप्रतिष्ठितं श्वेतमारण्यहस्तिनमागतं दृष्ट्वा दर्शयति। दर्शिते च ते हस्तिनो मार्गतः पृष्ठतो धाविता आगतैरपि हस्तिनो रूपेणाऽऽक्षिप्तहस्तिरूपं वर्णयद्भिस्तेन व्याक्षेपेणाथ शालिन लूनः । एवमिहापि अभ्युत्थानेन व्याक्षेपे रतानां पौरुषीभङ्गो भवति।, व्याख्यानं पुनर्न किमपि याति, तस्माद् व्याक्षेपो न विधेयः। ___ प्रशस्ते व्याक्षेपाऽकरणे दृष्टान्तः स्वयं भावनीयः, स चैवं- एक: कौटुम्बिकः शालिक्षेत्रं | लावयति, तस्य सत्कया दास्या शालिं लुनन्त्या सप्ताङ्गप्रतिष्ठितः श्वेतो वनहस्ती चरन् दृष्टः, दास्या ज्ञातं यदि शालिलावकानां कथयिष्यामि ततो हस्तिनं दष्ट्वा हस्तिनो रूपेणाऽऽक्षिप्ता हस्तिनो रूपं वर्णयन्तम् आशिष्यन्ते, एष च हस्ती दिनेऽस्मिन्नवकाशे दृश्यते ततः शालिन लविष्यते, यदा तु शालि: परिपूर्णो लूनोऽभवत् तदा सा दासी स्वामिनः शालिलावकानां
गाथा २६३४-२६३१ वाचनाकाले अभ्युत्थाने कृते दोषाः
१११२ (A)
For Private And Personal Use Only