________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ८२५ (B)
असंयमाधिकरणमेतद् ग्रामादि, अप्कायादिप्रचुरत्वात्, ततोऽन्यद् ग्रामादिकं गन्तुमनास्तथैव विचारादिगतं पृच्छेत्, यथा- कस्मिन् ग्रामे नगरे देशे राज्ये वा साधवः?। एवमन्यस्मिन् देशे राज्ये ग्रामेषु वा पृच्छायामेवमेव पूर्वोक्तेनैव प्रकारेण यथाभावं कथनं कर्तव्यम्। किमुक्तं भवति? -यथा त्रिविधेषूपाश्रयेषु आसन्न-दूर-तपस्वि-बहुश्रुतानां पृच्छायां व्याकरणमनाभाव्यमाभाव्यं च वर्णितं तथाऽत्रापि द्रष्टव्यम् । तद्यथा- यद् यथा ग्रामादिकं पृष्टं तत्तथा कथनीयम्। वितथाख्याने तस्य प्रायश्चित्तं मासलघ, तत्र च गतो येषां समीपमुपगच्छति स तेषामाभवति, नान्येषामिति ॥ १७९२॥
अहवा वि अण्णदेसं, संपट्ठियगं तगं मुणेऊण । माया-नियडिपहाणो, विप्परिणामे इमेहिं तु ॥ १७९३ ॥
अथवेति प्रकारान्तरे, तच्च प्रकारान्तरं विपरिणामविषयं वक्ष्यमाणरीत्या द्रष्टव्यम्।। विचारादिविनिर्गतं साधं दृष्ट्वा कोऽपि परेण आदरेण वन्दते, तं च तथा वन्दमानं पृच्छतिकुतस्त्वम् कुत्र वा सम्प्रस्थितः इति स प्राह- अमुकं देशं सम्प्रस्थितः, तत्र गत्वा प्रव्रजिष्यामि तत एवमन्यदेशं सम्प्रस्थितं तं ज्ञात्वा माया- परवञ्चनाभिप्रायः, निकृतिः-आकार
गाथा १७८९-१७९२
आभवनव्यवहारः
८२५ (B)
For Private and Personal Use Only