________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् चतुर्थ उद्देशकः | ८१५ (A
एवं ठियाण पालो, आयरियो सेस मासियं लहुयं । कप्पट्ठिनीलकेसी, आयसमुत्था परे उभए ॥ १७६९ ॥
एवं त्रयोदशदोषविप्रमुक्ते त्रयोदशभिर्गुणैरुपेते क्षेत्रे कारणवशतस्त्रयाणां वर्षासु स्थितानां द्वयोर्भिक्षार्थं विनिर्गमे तृतीयः पश्चात्पाल: वसतिपाल: आचार्यः स्थापनीयः। अथान्यं स्थापयति तत आह- शेषे आचार्यव्यतिरिक्ते वसतिपाले स्थाप्यमाने प्रायश्चित्तं मासिकं लघु। तथा यदि तरुणं श्रमणं वसतिपालं पश्चात् स्थापयति तत इमे स्वलिङ्गासेवनादिका दोषाः, तद्यथा- आत्मसमुत्थाः परे परसमुत्था उभयस्मिन् उभयसमुत्थाः। कस्या इव? इत्याह- कप्पट्टिनीलकेसीति कल्पस्थिता बालिका, नीलकेशी-कृष्णकेशी तरुणीत्यर्थः, ततो विशेषणसमासः, तस्या इव, विभक्तिलोप इवलोपश्च प्राकृतत्वात्। इयमत्र भावना-यथा तरुणी बालिका तरुणानां महतां च प्रार्थनीया भवति। एवं तरुणोऽपि तरुणीनां महतीनां च प्रार्थनीयः। ततस्तस्मिन् पश्चात्स्थाप्यमाने स्वलिङ्ग-परलिङ्ग-गृहिलिङ्गासेवनविषया आत्मसमुत्था परसमुत्थाः उभयसमुत्थाश्च मैथुनदोषाः सम्भवन्ति ॥१७६९ ॥
गाथा ४१७६७-१७७१
स्वाध्यायलाभः
८१५ (A)
एतदेवाऽऽह
For Private and Personal Use Only