SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८१४ (A) सुलभा भिक्षा यत्र तस्मिन् सुलभभिक्षे ग्रामादौ वसतां ज्ञानस्य श्रुतज्ञानस्य तपरराश्चानशनादेर्विशिष्टा वृद्धिर्भवति, आहारोपष्टम्भतः स्वाध्यायस्य तपसश्च कर्तुं शक्यत्वात्। तथा गच्छस्य सम्पत् स्फीतताऽतिविशिष्टा भवति शिष्याणां प्रातीच्छिकानां चाऽनेकेषामागमनात्। न च एषणायाः घातः प्रेरणा नापि स्थापनायाः मासकल्प-वर्षाकल्परूपायाः अथवा स्थापनाकुलानां भङ्गः प्रेरणा १२॥ १७६६॥ स्वाध्यायद्वारमाह वायंतस्स उ पणगं, पणगं च पडिच्छतो भवे सुत्तं । ___एगग्गं बहुमाणो, कित्ती य गुणा य सज्झाए ॥ १७६७ ॥ यत्र स्वाध्यायश्चतुष्कालं निर्वहति तत्र वर्षावासः कर्तव्यः, यतः स्वाध्यायेऽमी गुणा:सूत्रम् आचारादिकं सूत्रतोऽर्थतस्तदुभयतश्च वाचयतः पञ्चकं वक्ष्यमाणं सङ्ग्रहादिकं भवति। यथा च वाचयतः पञ्चकं तथा प्रतीच्छतः श्रोतुरपि पञ्चकम्, तस्यापि सङ्ग्रहादिनिमित्तं श्रुतश्रवणाय प्रवृत्तेः। तथा वाचयतः प्रतीच्छतश्चैकानयं श्रुतैकपरतोपजायते, सा च विश्रोतसिकावारिका भवति। तथा बहमानं भक्तिः श्रुतस्य तीर्थकरस्य च कृतं भवति। गाथा ४१७६७-१७७१ स्वाध्यायलाभ: म ८१४ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy