________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८१३ (B)
पाषण्डद्वारमाहपासंडभाविएसु, लभंति ओमाण मो अतिबहूसु । अवि य विसेसुवलद्धी, हवंती कज्जेसु उ सहाया ॥ १७६५ ॥ दारं ११॥ *
यदि स्तोकाः पाषण्डास्ततोऽशनादीनि वस्त्राणि भैषजानि चाऽतिसुलभानि भवन्ति। अतिबहुषु पुनः पाषण्डेषु सत्सु पाषण्डभावितेभ्यो जनेभ्यो, गाथायां सप्तमी पञ्चम्यर्थे, अपमानं लभन्ते। अपीति सम्भावने। च: पुनरर्थे, सम्भाव्यते पुनरियं विशेषोपलब्धिःअन्यपाषण्डेभ्योऽतिशयोपलब्धिः यथा- यदन्यत् पाषण्डिनां कल्पते तत्साधूनां न कल्पते, तत एवं लोको भावितः सन् साधूनां कल्पिकं ददाति। तथा कार्येषु च बहुप्रकारेषु शृङ्गनादितादिलक्षणेषु वयमपि पाषण्डाः, एतेऽपि च पाषण्डा धर्मस्थिता इति कृत्वा सहाया भवन्ति ११॥ १७६५॥
सम्प्रति भिक्षाद्वारमाहनाणतवाण विवड्डी, गच्छस्स य संपया सुलभभिक्खे ।। न य एसणाए घातो, नेव य ठवणाए भंगो उ ॥ १७६६ ॥ दारं १२ ॥
गाथा १७६२-१७६६ क्षेत्रगुणा: १३
८१३ (B)
For Private and Personal Use Only