________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः
१०४४ (B)
www.kobatirth.org
अपरा विद्या अन्तःपुरे आन्तःपुरिकीविद्या भवति, यया आतुरस्य नाम गृहीत्वा आत्मनो अङ्गमपमार्जयति आतुरश्च प्रगुणो जायते सा आन्तः पुरिकी । अन्या दर्भे दर्भविषया भवति विद्या, यया दर्भैरपमृज्यमान आतुरः प्रगुणो भवति । वियणे यत्ति व्यजनविषया विद्या यया व्यजनमभिमन्त्र्य तेनातुरोऽपमृज्यमानः स्वस्थो भवति सा व्यजनविद्या । एवं तालवृन्तविद्याऽपि भावनीया। चपेटा चापेटीविद्या, यया अन्यस्य चपेटायां दीयमानायामातुरः स्वस्थ भवति सा चापेटी । तत्र पूर्वं दूत्या विद्ययाऽपमार्जनं कर्तव्यम् । तदभावे आदर्शिक्या । एवं तावद्यावदन्ते चापेट्या । एषा अपमार्जनायतना ॥२४१९ ॥
एतदेव स्पष्टतरमाह
दूयस्सोमाइज्जइ, असती अद्दागपरिजवित्ताणं ।
परिजवियं वत्थं वा, पाउज्जइ तेण वोमाए ॥२४२० ॥
एवं दब्भादीसुं, वि ओमाए असंफुसंतो हत्थेण । चावेडीविज्जाए ओमाए चवेडयं देंतो ॥२४२१॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
गाथा
२४१९-२४२४ विपक्षे वैयावृत्त्ये
यतना
१०४४ (B)