________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
पंचम
उद्देशकः १०४४ (A)
XX.
एतेषां प्राग्गाथानिर्दिष्टानां सर्वेषामसति अभावे गृहस्था माता भगिनी। तदभावे स्वजनाः स्थविर-मध्यम-तरुणभेदतस्त्रिविधाः पूर्वपूर्वालाभे उत्तरोत्तरा कारयितव्या । तदभावे असम्बन्धिनी स्थविरादिभेदतस्त्रिविधा प्राक्क्रमेण कारयितव्या। तस्या अलाभे परतीर्थिकी स्थविरादिभेदतस्त्रिप्रकारा पूर्वपूर्वालाभे उत्तरोत्तरा कारयितव्या। एतेषां च भेदानां सर्वेषामपि असति अलाभे श्रमणी त्रिविधा स्थविरादिभेदतस्त्रिप्रकारा पूर्वपूर्वालाभे उत्तरोत्तरा यतनया करोति ॥ २४१८ ॥ तामेव यतनामाहदूती अदाए या, वत्थे अंतेउरे य दब्भे या ।
गाथा वियणे य तालवेंटे, चवेड ओमज्जणाजयणा ॥२४१९॥
२४१९-२४२४ काचित् दूतविद्या भवति। तया च दूतविद्यया यो दूत आगच्छति, तस्य |
वैयावृत्त्ये
यतना दंशस्थानमपमाय॑ते, तेनेतरस्य दंशस्थानमुपशाम्यति। अदाएत्ति अपरा आदर्शविद्या, तया आतुर आदर्श प्रतिबिम्बितोऽपमाय॑ते आतुरः प्रगुणो जायते । अन्या विद्या वस्त्रे वस्त्रविषया १०४४ (A) भवति, तया परिजपितेन वस्त्रेण प्राव्रियमाणो वस्त्रेण वाऽपमुज्यमान आतूर: प्रगणो भवति।
विपक्षे
For Private and Personal Use Only