________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
पंचम उद्देशकः
१०२६ (B)
यादृशैः सिचयैः वस्त्रैः प्रावृतैः सा संयती उपविष्टा दृष्टा तादृशैर्वस्त्रैः तमः अन्धकारमस्या अस्तीति तमस्विनी रात्रिस्तस्यां तरुणसाधुर्वरितः प्रावृतः क्रियते । ततः संभलित्ति दूती प्रेष्यते। ततो विनृको नरविहीनो य ओको निवासः, गृहमित्यर्थः, तत्र केतनं सङ्केतो दीयते, दत्त्वा च स तत्र स्थितस्तावत्तिष्ठति, यावत् स तरुणसाधुः संयतीनेपथ्योपेत आगच्छति। तस्मिश्चागते चिकुरेषु केशेषु गण्डयोश्च वेलपनं क्रीडनं करोति, तत्र यद्येतावता शुक्रनिपाततस्तिष्ठति ततः सन्दरम्। अथ न तिष्ठति तर्हि स संयतीनेपथ्योऽपसार्यते । प्रकारान्तरमारभ्यते ॥२३५६॥ तदेव प्रकारान्तरमाह
सूत्र २० अहवा वि सिद्धपुत्तिं, पुव्वि गमेऊण तीय सिचएहिं । आवरिय कालियाए, सुण्णागारादि सम्मेलो ॥२३५७॥
२३५५-२३६०
वैयावृत्त्यअथवेति प्रकारान्तरद्योतने। पूर्व सिद्धपुत्री गमयित्वा तस्याः संयत्याः सिचयैरावृत्य | करण विधि: कालिकायां कृष्णायां रात्रौ शून्यगृहादिषु तया सह तस्य सम्मेलः सङ्गमः कर्तव्यः ।। २३५७॥ १. ततो विना विनृको-पु. प्रे.॥
गाथा
४१०२६ (B)
For Private and Personal Use Only