________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
पंचम
उद्देश:
१०२५ (B)
www.kobatirth.org
नियमतः सहायानां विवर्जयेत्, तदसम्भवे सदृशवया अपि भवेत् । तत्र प्रथमभङ्गे चतुर्थभङ्गे वा सदृशवयःसहायसम्भवे पञ्चमं क्षुल्लकं क्षुल्लिकां वा पटुकां कुर्यात् ॥ २३५२ ॥
ईसिं अण्णोअत्ता, ठिया उ आलोयए विवक्खमि । सरिपक्खे उक्कुड्डुओ, 'पंजलिबद्धो वऽणुण्णातो ॥२३५३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
विपक्षे श्रमणस्य समीपे श्रमणी आलोचयति, ईषदवनता ऊर्ध्वस्थिता । सदृशपक्षे पुनः श्रमणः श्रमणस्य पार्श्वे पुनरुत्कुटुकः कृतप्राञ्जलिरालोचयति । अथ सोऽर्शोव्याधिपीडितः ततोऽनुज्ञापनां कृत्वा अनुज्ञातः सन् निषद्यायामुपविष्ट आलोचयति ॥ २३५३॥
दिट्ठीए होंति गुरुगा, सविकारा ओसरति सा भणिया । तस्स विवड्ढिते रागे, तिगिच्छ जयणाए कायव्वा ॥२३५४ ॥
दृष्ट्या दृष्टं नाति, तस्य दृष्टौ सविकारायां भवन्ति प्रायश्चित्तं तया (दा) चत्वारो गुरुकाः । तत्र येते द्वितीयका दत्तास्ते यदि एकतरं सविकारं पश्यन्ति, तत आलोचनातोऽपसारयन्ति,
१. पंजलिविट्ठो- मु. ला.
For Private and Personal Use Only
गाथा
२३४८ - २३५४ आलोचना ग्रहणविधिः
१०२५ (B)