________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
स्थविरः पूर्वसूत्रेऽभिहितः, स च आलोचनाया अर्हः, सोऽपि च योग्य आलोचनाया भवति आचारकल्पिक आचारप्रकल्पाभिधानाध्ययनधारी। तत एवं सति सा आलोचना न विपक्षे नापि सपक्षे अगीतेषु अगीतार्थेषु भवति, तत्र संयताः संयतीनां विपक्षः, संयत्यः संयतानाम्, सपक्षः संयता: संयतानां, संयत्यः संयतीनाम् । तत्र विपक्षे सपक्षे चाऽगीतार्थेष्वालोचनाप्रतिषेधार्थमधिकृतं सूत्रम् ॥२३२९ ॥
सूत्रम्
पंचम उद्देशकः
१०१६ (A)
अनेन सम्बन्धेनायातस्यास्य व्याख्या
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
ये निर्ग्रन्था निर्ग्रन्थ्यो वा सांभोगिकाः स्युस्तेषां, नो ण्हं इति वाक्यालङ्कारे, कल्पतेऽन्योन्यस्य परस्परस्याऽन्तिके आलोचयितुमगीतार्थत्वात्। अस्ति चेदत्र कश्चिदालोचनाहस्तर्हि कल्पते तस्यान्तिके आलोचयितुम्। नास्ति चेदालोचनाह एवं सति कल्पते अन्योन्यस्यान्तिके आलोचयितम् । एष सूत्रसंक्षेपार्थः ॥ अधुना भाष्यविस्तर:
संभोइयत्ति भणिते, संभोगो छव्विहो उ आदीए । भेदप्पभेदतो वि य, णेगविहो होति नायव्वो ॥२३३०॥
܀܀܀܀܀܀܀܀܀܀
सूत्र १९
गाथा २३२४-२३२९
आलोचनाग्रहण विधि:
१०१६ (A)
For Private and Personal Use Only