________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
पंचम उद्देशकः
१००९ (BI
तदेवं निर्ग्रन्थीसूत्रं भावितम्। अधुना निर्ग्रन्थसूत्रं विभावयिषुराहएमेव य साहूणं, वागरण-निमित्त-च्छंद-कहमादी । बिइयं गिलाणतोमे, अद्धाणे चेव थूभे य ॥२३१०॥
एवमेव अनेनैव प्रकारेण, साधूनामपि सूत्रं भावनीयम्, नवरं तत्र प्रमादो व्याकरणनिमित्त-छन्दः-कथाद्यधीयानस्य प्रतिपत्तव्यः। द्वितीयमाबाधालक्षणं कारणम्। स्वतो ग्लाने ग्लानप्रतिजागरणे वा, अवमौदर्ये, अशिवादिकारणतोऽध्वनि वा गमने, स्तूपे वा द्रष्टव्यम्। इयमत्र भावना- यदि व्याकरणाध्ययनतो निमित्तशास्त्राध्ययनतश्छन्दःशास्त्राध्ययनतो धर्मकथाध्ययनतः, आदिशब्दाद् विद्या-मन्त्रादिव्याक्षेपतो यदि प्रकल्पाध्ययनं नाशितं तदा पश्चादज्वालितेऽपि यावज्जीवं तस्मै गणं सूरयो न प्रयच्छन्ति। अथ ग्लानत्वाद्याबाधातो नाशितं तदा तस्मिन् पुनरुज्ज्वालिते प्रयच्छन्ति, प्रमाददोषाभावात् । तत्र ग्लानत्वादिविषय आबाधः प्रतीतः ॥ २३१० ॥
सम्प्रति स्तूपविषयमाह
गाथा ४२३०६-२३१०
܀܀܀܀܀܀܀܀܀
प्रमोद
दृष्टान्ताः
१००९ (B)
For Private and Personal Use Only