SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९२६ (B) तं चेव पुव्वभणियं, आपुच्छण मास दोच्चऽणापुच्छा । उवओग बहिं सुणणा, साहू-सण्णी-गिहत्थेसु ॥ २०७२ ॥ यदि निर्गन्तुमनसोऽनापृच्छया व्रजन्ति तदा प्रायश्चित्तं मासलघु। पृच्छायामपि कृतायां यदेव पूर्वभणितं तदेवाधिकृत्य गमनकाले द्वितीयवारमापृच्छा कर्तव्या। यदि पुनर्द्वितीयमपि वारं नापृच्छन्ति तदापि प्रायश्चित्तं मासलघु। किं कारणं द्वितीयमपि वारमापृच्छा कर्तव्या? इति चेद्, अत आह-उवओगेत्यादि, यदा पूर्वमापृष्टं तदाचार्योऽनुपयुक्त आसीत्, पश्चादुपयुक्तो जात उपयुक्तेन च तत्राशिवादयो दोषा ज्ञाताः। अथवा बहिं सुणणत्ति पश्चादाचार्येण विचारादिनिमित्तं बहिर्गतेन श्रुतम्, यथा- तत्र बहवो दोषा इति। यदि वा साधुना केनापि संज्ञिना श्रावकेण गृहस्थेन वा केनापि मिथ्यादृष्टिना भद्रकेण कथितमाचार्याणाम्, यथा तत्र बहवो दोषा इति। तस्मात् द्वितीयवारमवश्यं प्रष्टव्यम् ॥ २०७२ ॥ पच्छायां च कृतायां यद्यपि तत्र न केचनापि दोषा आचार्येण निर्जातास्तथापि तत्र क्षेत्रप्रत्युपेक्षकाः पूर्वं प्रेषणीयाः । तथा चाह गाथा ४२०७१-२०७५ चरिकायां विधिः १९२६ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy