________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९२६ (B)
तं चेव पुव्वभणियं, आपुच्छण मास दोच्चऽणापुच्छा । उवओग बहिं सुणणा, साहू-सण्णी-गिहत्थेसु ॥ २०७२ ॥
यदि निर्गन्तुमनसोऽनापृच्छया व्रजन्ति तदा प्रायश्चित्तं मासलघु। पृच्छायामपि कृतायां यदेव पूर्वभणितं तदेवाधिकृत्य गमनकाले द्वितीयवारमापृच्छा कर्तव्या। यदि पुनर्द्वितीयमपि वारं नापृच्छन्ति तदापि प्रायश्चित्तं मासलघु। किं कारणं द्वितीयमपि वारमापृच्छा कर्तव्या? इति चेद्, अत आह-उवओगेत्यादि, यदा पूर्वमापृष्टं तदाचार्योऽनुपयुक्त आसीत्, पश्चादुपयुक्तो जात उपयुक्तेन च तत्राशिवादयो दोषा ज्ञाताः। अथवा बहिं सुणणत्ति पश्चादाचार्येण विचारादिनिमित्तं बहिर्गतेन श्रुतम्, यथा- तत्र बहवो दोषा इति। यदि वा साधुना केनापि संज्ञिना श्रावकेण गृहस्थेन वा केनापि मिथ्यादृष्टिना भद्रकेण कथितमाचार्याणाम्, यथा तत्र बहवो दोषा इति। तस्मात् द्वितीयवारमवश्यं प्रष्टव्यम् ॥ २०७२ ॥
पच्छायां च कृतायां यद्यपि तत्र न केचनापि दोषा आचार्येण निर्जातास्तथापि तत्र क्षेत्रप्रत्युपेक्षकाः पूर्वं प्रेषणीयाः । तथा चाह
गाथा
४२०७१-२०७५
चरिकायां विधिः
१९२६ (B)
For Private and Personal Use Only