SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८९१ (A) नित्यशः सर्वकालं सेव्यमानम्। किमिव? इत्यत आह-कमलोजलं कमलपरिमण्डितं सर इव विहगैः पक्षिभिः ॥ १९८४ ॥ तथा खग्गूडान् कुस्वभावान् अनुशासन्तम्, सम्यग् उद्यताः समुद्यतास्तान् श्रद्धापयन्तं तेषां महतीं श्रद्धामुत्पादयन्तं, तथा गणस्य गच्छस्य अगिलया निर्जरार्थमात्मोत्साहेन स्वके विषये आत्मीयया शक्त्या इत्यर्थः, सङ्ग्रहं कुर्वन्तम् ॥१९८५ ॥ तथा इङ्गिताकारदक्षैः छन्दोनुवर्तिभिः सदा सर्वकालम् अविकूटितनिर्देशमखण्डिताज्ञं राजानमिव अनायकं न विद्यते नायको यस्य स तथा तम्, चक्रवर्तिनमित्यर्थः, दृष्टा कश्चिदगीतार्थ उत्पन्नगौरवो भवति ॥ १९८६ ॥ तथा चाहउत्पन्नगारवे एवं, गणित्ति परिकंखिओ । उप्पियंतं गणिं दिस्सा अगीतो भासते इमं ॥ १९८७ ॥ उत्पन्नम् अभिलषणीयतया जातं गौरवम् ऋद्धिगौरवं यस्य स तथा, एवमहमपि गणी भवामि, गणिपदमवाप्य परिपालयामि ततः शोभनं भवतीत्येवं परिकासितः परिकाक्षावान् गणिनमाचार्यमुप्पियन्तं मुहर्मुहः श्वसन्तं मर्तुकामलिङ्गं दृष्ट्वा कश्चिदगीतोऽगीतार्थः 'कथमहं गाथा १९८२-१९८९ आचार्यपद महिमादिः |८९१ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy