________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ८६६ (A)
सावेक्खो सीसगणं, संगह कारेइ आणुपुव्वीए । पडिच्छगते बेति, एस वियाणे अह महल्लो ॥ १९१८ ॥
सापेक्षः शिष्यगणं स्वदीक्षितशिष्यसमूहमभिनवस्थापितस्य सङ्ग्रहमानुपूर्व्या आनुपूर्वीकथनेन कारयति । यथा पूर्वं सुधर्मस्वामी गणधर आसीत्, ततस्तच्छिष्यो जम्बूस्वामी, तस्यापि शिष्यः प्रभवः । एवं तावद्यावत् सम्प्रति वयम्, अहमपि च सम्प्रति महान् वृद्धीभूतस्ततो मयाऽमुको गणधरः स्थापितो वर्तते तस्याऽऽज्ञां कुर्याद् वैनयिकादिकं च। तथा ज्ञानदर्शनादिप्रतीच्छानिमित्तमागताः प्रतीच्छागतास्तानपि ब्रूते-एष मम स्थाने विज्ञायेत, ममेवैतस्य सम्प्रति वैनयिकादिकं कर्तव्यमित्यर्थः ॥ १९१८ ॥
अत्रैवार्थे दृष्टान्तमाह
गाथा |१९१८-१९२४ राज्ये कुमारस्य स्थापनविधिः
जह राया व कुमार, रज्जे ठावेउमिच्छए जं तु । भड-जोहे बेति तगं, सेवह तुब्भे कुमारं ति ॥ १९१९ ॥
८६६ (A)
For Private and Personal Use Only